अध्याय २ : साङ्ख्य योग

सञ्जय उवाच
तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् । 
विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥१॥

श्रीकृष्ण उवाच
कुतस्त्वा कश्मलम् इदं विषमे समुपस्थितम् । 
अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥२॥

क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । 
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥

अर्जुन उवाच
कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन । 
इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥४॥

गुरूनहत्वा हि महानुभावाञ्छ्रेयो भोक्तुं भक्ष्यम् अपीह लोके । 
हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥५॥

न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः। 
यान् एव हत्वा न जिजीविषामस् तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः। 
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥

न हि प्रपश्यामि ममापनुद्याद् यच्छोकम् उच्छोषणम् इन्द्रियाणाम् । 
अवाप्य भूमाव् असपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८॥

सञ्जय उवाच
एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तप । 
न योत्स्य इति गोविन्दम् उक्त्वा तृष्णीं बभूव ह ॥९॥ 

तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । 
सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥१०॥

श्रीकृष्ण उवाच
अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश्च भाषसे । 
गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः ॥११॥

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । 
न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥१२॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । 
तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥१३॥

मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः । 
आगमापायिनोऽनित्यास् तांस् तितिक्षस्व भारत ॥१४॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । 
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५॥

नासतो विद्यते भावो नाभावो विद्यते सतः । 
उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥१६॥

अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥१७॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥१८॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९॥

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । 
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥

वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । 
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । 
तथा शरीराणि विहाय जीर्णान्य अन्यानि संयाति नवानि देही ॥२२॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३॥

अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च । 
नित्यः सर्वगतः स्थाणुर् अचलोऽयं सनातनः ॥२४॥

अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते । 
तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥२५॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । 
तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥२६॥

जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । 
तस्माद् अपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥२७॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । 
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥ 

आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः । 
आश्चर्यवच्चैनम् अन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९॥

देही नित्यम् अवध्योऽयं देहे सर्वस्य भारत । 
तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥३०॥

स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । 
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥३१॥

यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् । 
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥३२॥

अथ चेत् त्वम् इमं धर्म्यं सङ्ग्रामं न करिष्यसि । 
ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥३३॥

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । 
सम्भावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥३४॥

भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५॥ 

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । 
निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥

हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । 
तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥३८॥

एषा तेऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु । 
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । 
स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥४०॥

व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन । 
बहुशाखा ह्य् अनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१॥

याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः ॥४२॥

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । 
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥४३॥ 

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । 
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । 
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । 
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्व् अकर्मणि ॥४७॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । 
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८॥

दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय । 
बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ॥४९॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । 
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥५१॥ 

यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति । 
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥५३॥

अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । 
स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥५४॥

श्रीकृष्ण उवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येव् आत्मना तुष्टः स्थितप्रज्ञस् तदोच्यते ॥५५॥

दुःखेष्व् अनुद्विन्नमनाः सुखेषु विगतस्पृहः । 
वीतरागभयक्रोधः स्थितधीर् मुनिर् उच्यते ॥५६॥

यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । 
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । 
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥

विषया विनिवर्तन्ते निराहारस्य देहिनः । 
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९॥

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । 
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः । 
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥

ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते । 
सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥६२॥

क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । 
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥६३॥

रागद्वेषवियुक्तैस्तु विषयान् इन्द्रियैश्चरन् । 
आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥६४॥ 

प्रसादे सर्वदुःखानां हानिर् अस्योपजायते । 
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥

नास्ति बुद्धिर् अयुक्तस्य‌न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥६६॥

इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥६७॥ 

तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः । 
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥ 

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥ 

आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । 
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥७०॥

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः । 
निर्ममो निरहङ्कारः  स शान्तिम् अधिगच्छति ॥७१॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । 
स्थित्वास्याम् अन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥