अध्याय ५ : कर्मसन्न्यास योग

अर्जुन उवाच
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन् मे ब्रूहि सुनिश्चितम् ॥१॥

श्रीकृष्ण उवाच
सन्न्यासः कर्मयोगश्च निःश्रेयसकराव् उभौ ।
तयोस् तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥२॥

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥३॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । 
एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥४॥

यत् साङ्ख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । 
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५॥

सन्न्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः। 
योगयुक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥६॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । 
सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते ॥७॥

नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् । 
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्  ॥८॥

प्रलपन्विसृजन्गृह्णत्रुन्मिषन्निमिषन्नपि । 
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥

ब्रह्मण्य आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः
लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥१०॥

कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । 
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥११॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । 
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२॥

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥१३॥ 

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । 
न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ॥१४॥

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५॥

ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः। 
तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ॥१६॥

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । 
गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥१७॥

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । 
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। 
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९॥

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥२०॥

बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्यात्मनि यत् सुखम् । 
स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥२१॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥

शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् । 
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥

योऽन्तः सुखोऽन्तरारामस् तथान्तर् ज्योतिर् एव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४॥
 
 लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः । 
 छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥२५॥
 
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । 
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥२६॥

स्पर्शान् कृत्वा बहिर् बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । 
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७॥

यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥२८॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । 
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९॥