अध्याय ८ : अक्षरब्रह्म योग

अर्जुन उवाच
किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम । 
अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥१॥

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२॥

श्रीकृष्ण उवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्मम् उच्यते । 
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥३॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । 
अधियज्ञोऽहम् एवात्र देहे देहभृतां वर ॥४॥

अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम् । 
यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥५॥

यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ।
तं तं एवैति कौन्तेय सदा तद्भावभावितः ॥६॥

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । 
मय्य् अर्पितमनोबुद्धिर्  माम् एवैष्यस्य् असंशयम् ॥७॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । 
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥

कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । 
सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥९॥

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । 
भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥१०॥

यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥११॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । 
मूर्ध्न्याधायात्मनः प्राणम्  आस्थितो योगधारणाम् ॥१२॥

ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन्।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१३॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः। 
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥१४॥

माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् । 
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥

आब्रह्मभुवनाल् लोकाः पुनरावर्तिनोऽर्जुन । 
माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥१६॥

सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१७॥

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । 
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥१८॥

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । 
रात्र्यागमेऽवशः पार्थ प्रभवत्य् अहरागमे ॥१९॥

परस् तस्मात् तु भावोऽन्यो ऽव्यक्तोऽव्यक्तात् सनातनः । 
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥

अव्यक्तोऽक्षर इत्य् उक्तस्  तम् आहुः परमां गतिम्‌ ।
यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥२१॥

पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । 
यस्यान्तःस्थानि भूतानि येन सर्वम् इदं ततम् ॥२२॥

यत्र काले त्व् अनावृत्तिम्  आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं, वक्ष्यामि भरतर्षभ ॥२३॥
 
अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥२४॥

धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् । 
तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥२५॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥२६॥

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७॥

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम् । 
अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥२८॥