अध्याय ९ : राजविद्याराजगुह्य योग

श्रीकृष्ण उवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । 
ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥

राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् । 
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम्  ॥२॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । 
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥

मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना । 
मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ॥४॥

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन् न च भूतस्थो ममात्मा भूतभावनः  ॥५॥

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । 
तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय ॥६॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । 
कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥७॥

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । 
भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात्  ॥८॥

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । 
उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥९॥

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । 
हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥१०॥

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् । 
परं भावम् अजानन्तो मम भूतमहेश्वरम् ॥११॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । 
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः। 
भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥१३॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । 
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥

ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । 
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥

अहं क्रतुर् अहं यज्ञः स्वधाहमहमौषधम् । 
मन्त्रोऽहम् अहम्एवाज्यम् अहम्अग्निर् अहं हुतम् ॥१६॥

पिताहम् अस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च ॥१७॥

गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥१८॥

तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च। 
अमृतं चैव मृत्युश्च सद् असच् चाहम् अर्जुन ॥१९॥

त्रैविद्या मां सोमपाः पूतपापा यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते । 
ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥२०॥

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्मम् अनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम्  ॥२२॥

येऽप्य् अन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । 
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥२३॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च । 
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥२४॥

यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । 
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहम् भक्त्युपहृतम् अश्नामि प्रयतात्मनः  ॥२६॥

यत् करोषि यदश्नासि यज् जुहोषि ददासि यत् । 
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥२७॥

शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः।
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । 
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥२९॥

अपि चेत्सुदुराचारो भजते माम् अनन्यभाक् । 
साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥३०॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्  ॥३२॥

किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा।
अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥३३॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । 
माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥३४॥