अध्याय १० : विभूति योग

        श्रीकृष्ण उवाच
भूय एव महाबाहो शृणु मे परमं वचः। 
यत् तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥२॥

यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मत् र्येषु सर्वपापैः प्रमुच्यते ॥३॥

बुद्धिर् ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः । 
सुखं दुःखं भवोऽभावो भयं चाभयम् एव च ॥४॥

अहिंसा समता तुष्टिस् तपो दानं यशोऽयशः। 
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥

महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा । 
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । 
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥७॥

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । 
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥८॥

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । 
ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥१०॥

तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः । 
नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥१२॥

अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥१३॥

आहुस् त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । 
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३॥

सर्वम् एतदृतं मन्ये यन् मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥१४॥

स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । 
भूतभावन भूतेश देवदेव जगत्पते ॥१५॥

वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः । 
याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥१६॥

कथं विद्याम् अहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया ॥१७॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मेऽमृतम् ॥१८॥

श्रीकृष्ण उवाच
हन्त ते कथयिष्यामि दिव्या ह्य् आत्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥१९॥

अहमात्मा गुडाकेश सर्वभूताशयस्थितः । 
अहमादिश्च मध्यं च भूतानामन्त एव च ॥२०॥

आदित्यानाम् अहं विष्णुर्  ज्योतिषां रविर् अंशुमान् ।
मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥२१॥

वेदानां सामवेदोऽस्मि देवानाम् अस्मि वायवः । 
इन्द्रियाणां मनश्चास्मि भूतानाम् अस्मि चेतना ॥२२॥

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् ॥२३॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । 
सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥२४॥

महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । 
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५॥

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । 
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६॥

उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् । 
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥

आयुधानाम् अहं वज्र धेनूनाम् अस्मि कामधुक् । 
प्रजनश्चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥२८॥

अनन्तश्चास्मि नागानां वरुणो यादसाम् अहम् । 
पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥२९॥

प्रह्लादश्चास्मि दैत्यानां कालः कलयताम् अहम् । 
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥३०॥

पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् । 
झषाणां मकरश्चास्मि स्रोतसाम् अस्मि जाह्नवी ॥३१॥

सर्गाणाम् आदिर् अन्तश्च मध्यं चैवाहम् अर्जुन । 
अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् ॥३२॥

अक्षराणाम् अकारोऽस्मि द्वन्द्वः सामासिकस्य च । 
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥३३॥

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । 
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥३४॥

बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम्। 
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥३५॥

द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥३६॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । 
मुनीनाम् अप्य् अहं व्यासः कवीनामुशना कविः ॥३७॥

दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥३८॥

यच् चापि सर्वभूतानां बीजं तद् अहम्अर्जुन ।
न तद् अस्ति विना यत् स्यान्  मया भूतं चराचरम् ॥३९॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । 
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥

यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा । 
तत् तद् एवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥४१॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । 
विष्टभ्याहम् इदं कृत्स्नम्  एकांशेन स्थितो जगत् ॥४२॥