अध्याय १२ : भक्ति योग

अर्जुन उवाच
एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते । 
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥१॥

श्रीकृष्ण उवाच
मय्य् आवेश्य मनो ये मां, नित्ययुक्ता उपासते । 
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥२॥

ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । 
सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥३॥

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । 
ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥४॥

क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् । 
अव्यक्ता हि गतिर् दुःखं देहवद्भिरवाप्यते ॥५॥

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥

तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात् पार्थ मय्य् आवेशितचेतसाम् ॥७॥

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥८॥

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । 
अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय ॥९॥

अभ्यासेऽप्य् असमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थम् अपि कर्माणि, कुर्वन् सिद्धिम् अवाप्स्यसि ॥१०॥

अथैतद् अप्य् अशक्तोऽसि कर्तुं मद्योगम् आश्रितः।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥११॥

श्रेयो हि ज्ञानम् अभ्यासाज्  ज्ञानाद् ध्यानं विशिष्यते। 
ध्यानात् कर्मफलत्यागस् , त्यागाच् छान्तिर् अनन्तरम् ॥१२॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः  समदुःखसुखः क्षमी ॥१३॥
 
संतुष्टः सततं योगी, यतात्मा दृढनिश्चयः । 
मय्य् अर्पितमनोबुद्धिर्  यो मद्भक्तः स मे प्रियः ॥१४॥

यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्  मुक्तो यः स च मे प्रियः ॥१५॥

अनपेक्षः शुचिर् दक्ष उदासीनो गतव्यथः।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । 
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥

समः शत्रौ च मित्रे च तथा मानापमानयोः।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१८॥

तुल्यनिन्दास्तुतिर् मौनी संतुष्टो येन केनचित् । 
अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः ॥१९॥

ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते । 
श्रद्दधाना मत्परमा भक्तास् तेऽतीव मे प्रियाः ॥२०॥