अध्याय १३ : क्षेत्रक्षेत्रज्ञविभाग योग

श्रीकृष्ण उवाच
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । 
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१॥

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । 
क्षेत्रक्षेत्रज्ञयोर् ज्ञानं, यत्तज् ज्ञानं मतं मम ॥२॥

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्चतत् समासेन में शृणु ॥३॥

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । 
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥४॥

महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च । 
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥५॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । 
एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥६॥

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥७॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥८॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । 
नित्यं च समचित्तत्वम्  इष्टानिष्टोपपत्तिषु ॥९॥

मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी । 
विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ॥१०॥

 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतोऽन्यथा ॥११॥

ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वाऽमृतम् अश्नुते । 
अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते ॥१२॥
 
सर्वतः पाणिपादं तत्  सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१३॥

 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । 
 असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ॥१४॥

बहिर् अन्तश्च भूतानाम् अचरं चरम् एव च । 
सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ॥१५॥

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । 
भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥

ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१७॥
 
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते ॥१८॥

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभाव् अपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥१९॥

 कार्यकरणकर्तृत्वे हेतुः प्रकृतिर् उच्यते । 
 पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते ॥२०॥

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । 
कारणं गुण सङ्गोऽस्य सदसद्योनिजन्मसु ॥२१॥

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । 
परमात्मेति चाप्य् उक्तो देहेऽस्मिन् पुरुषः परः ॥२२॥

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । 
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥२३॥ 

ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥२४॥

अन्ये त्वेवम् अजानन्तः श्रुत्वान्येभ्य उपासते । 
तेऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः ॥२५॥

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ ॥२६॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥२७॥

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । 
न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥२८॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्त्तारं स पश्यति ॥२९॥

यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति । 
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥३०॥

अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः । 
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥३१॥

यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते । 
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥३२॥

यथा प्रकाशयत्य् एकः कृत्स्नं लोकमिमं रविः। 
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३॥

क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् ॥३४॥