अध्याय १५ : पुरुषोत्तम योग

श्रीकृष्ण उवाच
ऊर्ध्वमूलम् अधःशाखम्  अश्वत्थं प्राहुर् अव्ययम् । 
छन्दांसि यस्य पर्णानि, यस् तं वेद स वेदवित् ॥१॥

अधश्चोर्ध्वं प्रसृतास् तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।
अधश्च मूलान्य अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके  ॥२॥

न रूपम् अस्येह तथोपलभ्यतेनान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमृलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥३॥

ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । 
तम् एव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥

 निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
 द्वन्द्वैर् विमुक्ताः सुखदुःखसञ्ज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥५॥
  
न तद् भासयते सूर्यो न शशाङ्को न पावकः । 
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥६॥

ममैवांशो जीवलोके जीवभूतः सनातनः । 
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७॥

शरीरं यद् अवाप्नोति यच् चाप्य उत्क्रामतीश्वरः । 
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥८॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । 
अधिष्ठाय मनश्चायं विषयान् उपसेवते ॥९॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१०॥

यतन्तो योगिनश्चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । 
यतन्तोऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥११॥

यद् आदित्यगतं तेजो जगद् भासयतेऽखिलम् ।
यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥१२॥

गाम् आविश्य च भूतानि धारयाम्य अहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥

अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । 
प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् ॥१४॥

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च ।
वेदैश्च सर्वैर् अहम्एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् ॥१५॥

 द्वाव् इमौ पुरुषौ लोके क्षरश्चाक्षर एव च । 
 क्षरः सर्वाणि भूतानि कुटस्थोऽक्षर उच्यते ॥१६॥

उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः। 
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥१७॥

यस्मात् क्षरम् अतीतोऽहम्  अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥

यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् । 
स सर्वविद् भजति मां सर्वभावेन भारत ॥१९॥

इति गुह्यतमं शास्त्रम्  इदम् उक्तं मयानघ। 
एतद् बुद्ध्वा बुद्धिमान् स्यात्  कृतकृत्यश्च भारत ॥२०॥