अध्याय १६ : दैवासुरसम्पद्विभाग योग

श्रीकृष्ण उवाच
अभयं सत्त्वसंशुद्धिर्  ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस् तप आर्जवम् ॥१॥

अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । 
दया भूतेष्व् अलोलुप्त्वं मार्दवं हीर् अचापलम् ॥२॥

तेजः क्षमा धृतिः शौचम्  अद्रोहो नातिमानिता । 
भवन्ति संपदं दैवीम्  अभिजातस्य भारत ॥३॥

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यम् एव च । 
अज्ञानं चाभिजातस्य, पार्थ संपदम् आसुरीम् ॥४॥

दैवी संपद् विमोक्षाय, निबन्धायासुरी मता । 
मा शुचः संपदं दैवीम्  अभिजातोऽसि पाण्डव ॥५॥

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च। 
दैवो विस्तरशः प्रोक्त, आसुरं पार्थ मे शृणु ॥६॥

प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः। 
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥

असत्यम् अप्रतिष्ठं ते, जगद् आहुर् अनीश्वरम् ।
अपरस्परसंभूतं किम् अन्यत् कामहैतुकम् ॥८॥

एतां दृष्टिम् अवष्टभ्य, नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥९॥

कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः । 
मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥१०॥

चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः । 
कामोपभोगपरमा एतावद् इति निश्चिताः ॥११॥

आशापाशशतैर् बद्धाः कामक्रोधपरायणाः । 
ईहन्ते कामभोगार्थम्  अन्यायेनार्थसञ्चयान् ॥१२॥

इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् । 
इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥१३॥

असौ मया हतः शत्रुर्  हनिष्ये चापरान् अपि ।
ईश्वरोऽहम् अहं भोगी सिद्धोऽहं बलवान् सुखी ॥१४॥

आढ्योऽभिजनवान् अस्मि कोऽन्योऽस्ति सदृशो मया।
 यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञानविमोहिताः ॥१५॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६॥

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। 
यजन्ते नामयज्ञैस् ते दम्भेनाविधिपूर्वकम् ॥१७॥

अहङ्कारं बलं दर्प कामं क्रोधं च संश्रिताः ।
माम् आत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१८॥

तान् अहं द्विषतः क्रूरान्संसारेषु नराधमान्।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥१९॥

आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । 
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥२०॥

त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः। 
कामः क्रोधस् तथा लोभस्  तस्माद् एतत् त्रयं त्यजेत् ॥२१॥

एतैर् विमुक्तः कौन्तेय तमोद्वारैस् त्रिभिर् नरः । 
आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥२२॥

यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः।
न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥२३॥

तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ॥२४॥