अध्याय १७ : श्रृद्धात्रयविभाग योग

अर्जुन उवाच
ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः । 
तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥१॥

श्रीकृष्ण उवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । 
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । 
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३॥

यजन्ते सात्त्विका देवान्  यक्षरक्षांसि राजसाः। 
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥४॥

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । 
 दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥५॥ 
 
कर्षयन्तः शरीरस्थं भृतग्रामम् अचेतसः ।
मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥६॥

आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः । 
यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥७॥

आयुःसत्त्वबलारोग्य सुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८॥

 कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । 
 आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥९॥ 
 
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥

अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते । 
यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥११॥

अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यत् । 
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥

विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् । 
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३॥

देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् । 
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥१४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । 
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५॥

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः ।
भावसंशुद्धिर् इत्य् एतत्  तपो मानसम् उच्यते ॥१६॥

श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः । 
अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥१७॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । 
क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥१८॥

मुढग्राहेणात्मनो यत् पीडया क्रियते तपः । 
परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥१९॥

दातव्यम् इति यद् दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥२०॥

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः। 
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥२१॥

अदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते । 
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥२२॥

ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ।
ब्राह्मणास् तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३॥

तस्माद् ओम् इत्युदाहृत्य यज्ञदानतपःक्रियाः। 
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४॥

तद् इत्य् अनभिसन्धाय फलं यज्ञतपःक्रियाः । 
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥२५॥

सद्भावे साधुभावे च सद् इत्य् एतत् प्रयुज्यते । 
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६॥

यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते ।
कर्म चैव तदर्थीयं सद् इत्य् एवाभिधीयते ॥२७॥

अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । 
असद् इत्य् उच्यते पार्थ न च तत्प्रेत्य नो इह ॥२८॥